Saturday, May 20, 2006

ramchandra-slokaas-normally sung at the end of shasranam

ॐ आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥
नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥
अच्युतानन्तगोविन्द नामोच्चारणभेषजात ।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥
शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत ।
तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम् ॥

2 comments:

Stutimaṇḍala said...

Very nice stotram. Good work. it may appear soon at our website.

EggHe/\D said...

oh man this leaves me nostalgic ... we used to recite sahasranamam on every saturday in noida in a temple in a gathering of 20 people ....

after this we used to chant "narayana" in almost lyrical way .... oh great to see the shlokas ....

by the way u know about
Jatatavi galajjala pravaha paavitasthale
jaleva lamba lambikam bhujanga tunga maalikam
... shivastotram

do post rudram if you hav .... oh i still know it by heart

ashu u know its meanings ...